अगस्त्यमुनिकृत रामस्तुति
नमामि भक्तवत्सलं, कृपालुशीलकोमलम्।
भजामि ते पदाम्बुजम्, अकामिनां स्वधामदम्॥१॥
निकामश्यामसुन्दरं, भवाम्बुनाथमन्दरम्।
प्रफुल्लकञ्जलोचनं, मदादिदोषमोचनम्॥२॥
प्रलम्बबाहुविक्रमं, प्रभो प्रमेयवैभवम्।
निषङ्गचापसायकं, धरं त्रिलोकनायकम्॥३॥
दिनेशवंशमण्डनं, महेशचापखण्डनम्।
मुनीन्द्रसन्तरञ्जनं, सुरारिवृन्दभञ्जनम्॥४॥
मनोजवैरिवन्दितम्, अजादिदेवसेवितम्।
विशुद्धबोधविग्रहं, समस्तदूषणापहम्॥५॥
नमामि इन्दिरापतिं, सुखाकरं सतां गतिम्।
भजे सशक्तिसानुजं, शचीपतिप्रियानुजम्॥६॥
त्वदङ्घ्रिमूल ये नरा, भजन्ति हीनमत्सराः।
पतन्ति नो भवार्णवे, वितर्कवीचिसङ्कुले॥७॥
नमामि भक्तवत्सलं, कृपालुशीलकोमलम्।
भजामि ते पदाम्बुजम्, अकामिनां स्वधामदम्॥१॥
निकामश्यामसुन्दरं, भवाम्बुनाथमन्दरम्।
प्रफुल्लकञ्जलोचनं, मदादिदोषमोचनम्॥२॥
प्रलम्बबाहुविक्रमं, प्रभो प्रमेयवैभवम्।
निषङ्गचापसायकं, धरं त्रिलोकनायकम्॥३॥
दिनेशवंशमण्डनं, महेशचापखण्डनम्।
मुनीन्द्रसन्तरञ्जनं, सुरारिवृन्दभञ्जनम्॥४॥
मनोजवैरिवन्दितम्, अजादिदेवसेवितम्।
विशुद्धबोधविग्रहं, समस्तदूषणापहम्॥५॥
नमामि इन्दिरापतिं, सुखाकरं सतां गतिम्।
भजे सशक्तिसानुजं, शचीपतिप्रियानुजम्॥६॥
त्वदङ्घ्रिमूल ये नरा, भजन्ति हीनमत्सराः।
पतन्ति नो भवार्णवे, वितर्कवीचिसङ्कुले॥७॥
